ShriMahaLakshmiRatnaKendra
27/02/2024

Aprajita Strot

  • अपराजितास्तोत्रम्
  • AparAjitA Stotram
  • अपराजितास्तोत्रम्
  • श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् ।
  • ॐ नमोऽपराजितायै ।
  • ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः
  • वामदेव-बृहस्पति-मार्कण्डेया ऋषयः ।
  • गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।
  • लक्ष्मीनृसिंहो देवता ।
  • ॐ क्लीं श्रीं ह्रीं बीजम् ।
  • हुं शक्तिः ।
  • सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः
  • ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।
  • शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥
  • शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम्
  • बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥
  • नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥
  • मार्कण्डेय उवाच –
  • शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।
  • असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥
  • ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,
  • नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने,
  • शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय
  • अजाय अजिताय पीतवाससे,
  • ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध,
  • हयग्रीव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत,
  • वामन, त्रिविक्रम, श्रीधर राम राम राम ।
  • वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,
  • ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड-
  • सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान्
  • उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच
  • मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय
  • चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन
  • गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।
  • ॐ सहस्रबाहो सहस्रप्रहरणायुध,
  • जय जय, विजय विजय, अजित, अमित,
  • अपराजित, अप्रतिहत, सहस्रनेत्र,
  • ज्वल ज्वल, प्रज्वल प्रज्वल,
  • विश्वरूप बहुरूप, मधुसूदन, महावराह,
  • महापुरुष, वैकुण्ठ, नारायण,
  • पद्मनाभ, गोविन्द, दामोदर, हृषीकेश,
  • केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर,
  • सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन,
  • सर्वनागविमर्दन, सर्वदेवमहेश्वर,
  • सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन,
  • सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,
  • सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।
  • विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।
  • सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥
  • सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा ।
  • नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥
  • विद्या रहस्या कथिता वैष्णव्येषापराजिता ।
  • पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥
  • ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
  • प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥
  • अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।
  • या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥
  • सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।
  • या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।
  • सर्वकामदुघा वत्स शृणुष्वैतां ब्रवीमि ते ॥ १०॥
  • य इमामपराजितां परमवैष्णवीमप्रतिहतां
  • पठति सिद्धां स्मरति सिद्धां महाविद्यां
  • जपति पठति शृणोति स्मरति धारयति कीर्तयति वा
  • न तस्याग्निवायुवज्रोपलाशनिवर्षभयं,
  • न समुद्रभयं, न ग्रहभयं, न चौरभयं,
  • न शत्रुभयं, न शापभयं वा भवेत् ।
  • क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण-
  • विद्वेषोच्चाटनवधबन्धनभयं वा न भवेत् ।
  • एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।
  • ॐ नमोऽस्तुते ।
  • अभये, अनघे, अजिते, अमिते, अमृते, अपरे,
  • अपराजिते, पठति, सिद्धे जयति सिद्धे,
  • स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि,
  • सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति,
  • गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति,
  • धरणि, धारणि, सौदामनि, अदिति, दिति, विनते,
  • गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि,
  • ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे,
  • सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं
  • वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा ।
  • यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
  • म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥
  • धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।
  • गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥
  • भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।
  • एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥
  • रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
  • शस्त्रं वारयते ह्येषा समरे काण्डदारुणे ॥ १४॥
  • गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥
  • शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥
  • इत्येषा कथिता विद्या अभयाख्याऽपराजिता ।
  • एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥
  • नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।
  • न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥
  • यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।
  • अग्नेर्भयं न वाताच्च न स्मुद्रान्न वै विषात् ॥ १८॥
  • कार्मणं वा शत्रुकृतं वशीकरणमेव च ।
  • उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥
  • न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।
  • पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥
  • हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।
  • हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥
  • रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ।
  • पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥
  • साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि ।
  • नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥
  • रक्षणं पावनं चापि नात्र कार्या विचारणा ।
  • प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।
  • तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥
  • ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।
  • सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥
  • दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।
  • भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥
  • डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।
  • महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥
  • गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।
  • तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २८॥
  • एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।
  • द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥
  • पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।
  • श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥
  • मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।
  • द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा ।
  • क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥
  • ॐ हॄं हन हन, कालि शर शर, गौरि धम्,
  • धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच
  • विद्ये नाशय नाशय पापं हर हर संहारय वा
  • दुःखस्वप्नविनाशिनि कमलस्थिते विनायकमातः
  • रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि,
  • चक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि
  • विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि
  • केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि ।
  • शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं
  • क्रं तुरु तुरु ॐ द्रं कुरु कुरु ।
  • ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान्
  • दम दम मर्दय मर्दय तापय तापय गोपय गोपय
  • पातय पातय शोषय शोषय उत्सादय उत्सादय
  • ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि
  • ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि
  • आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि
  • ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि ।
  • ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि ।
  • कामाङ्कुशे कामदुघे सर्वकामवरप्रदे ।
  • सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा ।
  • आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि,
  • धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि ।
  • नीलपताके महानीले महागौरि महाश्रिये ।
  • महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि ।
  • यमघण्टे किणि किणि चिन्तामणि ।
  • सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे ।
  • यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ।
  • ॐ स्वाहा ।ॐ भूः स्वाहा ।ॐ भुवः स्वाहा ।ॐ स्वः स्वहा ।ॐ महः स्वहा ।ॐ जनः स्वहा ।ॐ तपः स्वाहा ।ॐ सत्यं स्वाहा ।ॐ भूर्भुवः स्वः स्वाहा ।
  • यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् ।
  • अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥
  • स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा ।
  • एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥
  • नानया सदृशी रक्षा। त्रिषु लोकेषु विद्यते ।
  • तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥
  • कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः ।
  • मूलाधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥
  • नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् ।
  • उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥
  • शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् ।
  • व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥
  • धावन्तीं गगनस्यान्तः पादुकाहितपादकाम् ।
  • दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥
  • व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् ।
  • स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥
  • सप्तधातून् शोषयन्तीं क्रूरदृष्ट्या विलोकनात् ।
  • त्रिशूलेन च तज्जिह्वां कीलयन्तीं मुहुर्मुहुः ॥ ४०॥
  • पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके ।
  • अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥
  • यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके ।
  • तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥
  • ॐ बले महाबले असिद्धसाधनी स्वाहेति ।
  • अमोघां पठति सिद्धां श्रीवैष्णवीम् ॥ ४३॥
  • श्रीमदपराजिताविद्यां ध्यायेत् ।
  • दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च ।
  • व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥
  • यदत्र पाठे जगदम्बिके मया
  • विसर्गबिन्द्वऽक्षरहीनमीडितम् ।
  • तदस्तु सम्पूर्णतमं प्रयान्तु मे
  • सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥
  • तव तत्त्वं न जानामि कीदृशासि महेश्वरि ।
  • यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६॥
  • अपराजिता स्त्रोत
  • सिद्धकुञ्जिकास्तोत्रम्॥
  • शिव उवाच
  • शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्।
  • येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत॥१॥
  • न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।
  • न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्॥२॥
  • कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्।
  • अति गुह्यतरं देवि देवानामपि दुर्लभम्॥३॥
  • गोपनीयं प्रयत्‍‌नेन स्वयोनिरिव पार्वति।
  • मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्।
  • पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम्॥४॥
  • अथ मन्त्रः॥
  • ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे॥
  • ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
  • ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा॥
  • इति मन्त्रः॥
  • नमस्ते रूद्ररूपिण्यै नमस्ते मधुमर्दिनि।
  • नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥१॥
  • नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि।
  • जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे॥२॥
  • ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका।
  • क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥३॥
  • चामुण्डा चण्डघाती च यैकारी वरदायिनी।
  • विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि॥४॥
  • धां धीं धूं धूर्जटेः पत्‍‌नी वां वीं वूं वागधीश्‍वरी।
  • क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥५॥
  • हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।
  • भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥६॥
  • अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं।
  • धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥७॥
  • पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा।
  • सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे॥८॥
  • इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे।
  • अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति॥
  • यस्तु कुञ्जिकाया देवि हीनां सप्तशतीं पठेत्।
  • न तस्य जायते सिद्धिररण्ये रोदनं यथा॥
  • इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम्।
  • ॐ तत्सत्॥
  • दुर्गा चालीसा
  • नमो नमो दुर्गे सुख करनी।नमो नमो दुर्गे दुःख हरनी॥
  • निरंकार है ज्योति तुम्हारी।तिहूं लोक फैली उजियारी॥
  • शशि ललाट मुख महाविशाला।नेत्र लाल भृकुटि विकराला॥
  • रूप मातु को अधिक सुहावे।दरश करत जन अति सुख पावे॥
  • तुम संसार शक्ति लै कीना।पालन हेतु अन्न धन दीना॥
  • अन्नपूर्णा हुई जग पाला।तुम ही आदि सुन्दरी बाला॥
  • प्रलयकाल सब नाशन हारी।तुम गौरी शिवशंकर प्यारी॥
  • शिव योगी तुम्हरे गुण गावें।ब्रह्मा विष्णु तुम्हें नित ध्यावें॥
  • रूप सरस्वती को तुम धारा।दे सुबुद्धि ऋषि मुनिन उबारा॥
  • धरयो रूप नरसिंह को अम्बा।परगट भई फाड़कर खम्बा॥
  • रक्षा करि प्रह्लाद बचायो।हिरण्याक्ष को स्वर्ग पठायो॥
  • लक्ष्मी रूप धरो जग माहीं।श्री नारायण अंग समाहीं॥
  • क्षीरसिन्धु में करत विलासा।दयासिन्धु दीजै मन आसा॥
  • हिंगलाज में तुम्हीं भवानी।महिमा अमित न जात बखानी॥
  • मातंगी अरु धूमावति माता।भुवनेश्वरी बगला सुख दाता॥
  • श्री भैरव तारा जग तारिणी।छिन्न भाल भव दुःख निवारिणी॥
  • केहरि वाहन सोह भवानी।लांगुर वीर चलत अगवानी॥
  • कर में खप्पर खड्ग विराजै।जाको देख काल डर भाजै॥
  • सोहै अस्त्र और त्रिशूला।जाते उठत शत्रु हिय शूला॥
  • नगरकोट में तुम्हीं विराजत।तिहुंलोक में डंका बाजत॥
  • शुंभ निशुंभ दानव तुम मारे।रक्तबीज शंखन संहारे॥
  • महिषासुर नृप अति अभिमानी।जेहि अघ भार मही अकुलानी॥
  • रूप कराल कालिका धारा।सेन सहित तुम तिहि संहारा॥
  • परी गाढ़ संतन पर जब जब।भई सहाय मातु तुम तब तब॥
  • अमरपुरी अरु बासव लोका।तब महिमा सब रहें अशोका॥
  • ज्वाला में है ज्योति तुम्हारी।तुम्हें सदा पूजें नर-नारी॥
  • प्रेम भक्ति से जो यश गावें।दुःख दारिद्र निकट नहिं आवें॥
  • ध्यावे तुम्हें जो नर मन लाई।जन्म-मरण ताकौ छुटि जाई॥
  • जोगी सुर मुनि कहत पुकारी।योग न हो बिन शक्ति तुम्हारी॥
  • शंकर आचारज तप कीनो।काम अरु क्रोध जीति सब लीनो॥
  • निशिदिन ध्यान धरो शंकर को।काहु काल नहिं सुमिरो तुमको॥
  • शक्ति रूप का मरम न पायो।शक्ति गई तब मन पछितायो॥
  • शरणागत हुई कीर्ति बखानी।जय जय जय जगदम्ब भवानी॥
  • भई प्रसन्न आदि जगदम्बा।दई शक्ति नहिं कीन विलम्बा॥
  • मोको मातु कष्ट अति घेरो।तुम बिन कौन हरै दुःख मेरो॥
  • आशा तृष्णा निपट सतावें।रिपू मुरख मौही डरपावे॥
  • शत्रु नाश कीजै महारानी।सुमिरौं इकचित तुम्हें भवानी॥
  • करो कृपा हे मातु दयाला।ऋद्धि-सिद्धि दै करहु निहाला।
  • जब लगि जिऊं दया फल पाऊं ।तुम्हरो यश मैं सदा सुनाऊं ॥
  • दुर्गा चालीसा जो कोई गावै।सब सुख भोग परमपद पावै॥
  • देवीदास शरण निज जानी।करहु कृपा जगदम्ब भवानी॥
  • इति श्री दुर्गा चालीसा सम्पूर्ण ॥

Leave a Reply

Your email address will not be published. Required fields are marked *